16. जनकसप्तरात्रம். இதில் வரிசையாய் अग्निष्टोमம், மூன்று उक्थ्यங்கள், विश्वजित्; महाव्रतம்; ज्योतिष्टोमமான अतिरात्रம். முதல் நாலு நாள்களிலும் எல்லா ஸ்தோத்திரங்களுக்கு ஸ்தோமம் 9. இவைகளை द्वादशाहம் போல் செய்யவேண்டியது; ஸ்தோமம் மாத்திரம் மாற்றப்பட்டது என்று தீர்மானம் (ताण्ड्य.ब्रा.अध्या-22, खण्डः-9; मीमांसा-अध्या-8; पा-3, अधि-2).

ताण्ड्य.ब्रा.अध्या-22, खण्डः-9
चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः
एतेन वै प्रजापतिः पुरूषं असृजत स सर्वस्यान्नाद्यस्याधिपत्यं अगच्छत्
सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद
शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत्पृष्ठान्युपैति शिर एवात्मानं अनुसन्दधाति
एतद्वै पुरूषं अकस्तस्मा अन्नं एव व्रतं अपिदधाति
अथ यत्ज्योतिष्टोमोऽतिरात्रो भवत्यक्ळ्प्तस्य क्ळ्प्त्यै

मीमांसा-अध्या-8; पा-3, अधि-2 - जनकसप्तरात्रे त्रिवृत्स्वहःसु द्वादशाहधर्मातिदेशाधिकरणम्
8.3.2.3 - गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् ॥
8.3.2.4 - नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् ॥
8.3.2.5 - तथा चान्यार्थदर्शनम् ॥

Go to Main Page